॥ विघ्नविनाशकस्तोत्रम् ।।
ईशानो ढुंढिराजो गणपतिरखिलाघौघनाशो वरेण्यो
देवानामग्रगण्यः सकलगुणनिधिर्योग्र पूजाधिकारी।
विद्याधीशो बलिष्ठः षडरिविदलनः सिद्धिबुद्धिप्रदाता
जीवानां मुक्तिहेतुर्जयति भवहरः श्रीगुरुः सौख्यसिन्धुः।।१।।
विघ्नान्हन्तीति योसौ श्रुतिषु निगदितो विघ्नहेतिप्रसिद्धो
व्यक्ते वाव्यक्तरूपे प्रणववपुरयं ब्रह्मरूपः स्वमात्रः ।
यो व्यक्तो भक्तहेतुर्निरवधिरमलो निर्गुणो निष्क्रियोऽपि
भक्तानां मुक्तिहेतौ विदलयति कृतं मायिकस्याद्वयः सः।।२।।
सर्पो रज्जुर्हि यद्वन्न भुजग इति सा कथ्यते रज्जुसर्पे
विश्वं ब्रह्मैव तद्वन्नच जगदिति तत्खल्विदं ब्रह्म वाक्ये।
सत्तासामान्यरूपात्कथितमपि च यो दृश्यरूपो न तादृग् दृश्यं यद्विघ्नकृत्स्यात्तदपनयति यो बोधतो विघ्नहाऽयम् ।।३।।
सर्वं ब्रह्मस्वरूपं परमपरयुतं विश्वमाभाति यच्च
चैतन्यस्याद्वयत्वात् गदित इति च यो दृश्यरूपोऽप्यरुपः।
माया तत्सर्वकार्य जडमिति कथितं यं विनाऽभावमेति
सर्वत्रावस्थितत्वात्तदनुभव इति स्वादनाद्योऽद्वयः सः ।।४।।
भात्यस्त्यानन्दरूपोसदसुखजडतारूपदृश्येऽस्ति यो वै
नित्यो नित्यादिकानां भवति किल तथा चेतनश्चेतनानाम् ।
सर्वस्यैतस्य मायाकृतसुखमिह यत्प्रार्थ्यते तद्गणेशो
यस्तं सर्वादिभूतं भजत जगति भो ! सारभूतं वरेण्यम्।।५।।
नित्यं यन्निर्विकारं निरतिशयसुखं ब्रह्म तन्मत्स्वरूपं
ज्ञात्वा विश्वातिभूतः सकलविदलयन् स्वार्चिषास्वस्थ आसे।
माया तत्कार्यमेतत् स्पृशति न मयि वा दृश्यते नाविरासीन्
मायायाः सर्वशक्तेः पर इति सततं यः स एवाद्वयोऽहम् ।।६।।